मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् ५

संहिता

आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
मा वा॑म॒न्ये नि य॑मन्देव॒यन्त॒ः सं यद्द॒दे नाभि॑ः पू॒र्व्या वा॑म् ॥

पदपाठः

आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पृ॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽवृता॑ । रथे॑न ।
मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् । यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥

सायणभाष्यम्

नोऽस्मानच्छाभि प्राप्तुं दिवो द्युलोकात्पृथिव्याः सकाशाद्वा आ यातम् । केन साधनेन । हिरण्ययेन हितरमणीयेन सुवृता शोभनवर्तनेन रथेन । वां युवानमन्ये देवयन्तो देवौ युवामिच्छन्तो यजमाना मा नि यमन् । नियमनं मा कुर्वन् । यद्यस्मात्पूर्व्या पूर्वार्हेतरयष्टृभ्यः पूर्वभाविनी नाभिर्बन्धिका स्तुतिः सं ददे । सम्बध्नाति । तस्मादायातम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०