मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४४, ऋक् ६

संहिता

नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे ।
नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ळ्हासो॑ अग्मन् ॥

पदपाठः

नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ।
नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ळ्हासः॑ । अ॒ग्म॒न् ॥

सायणभाष्यम्

नु क्षिप्रं नोऽस्माकं रयिं धनं पुरुवीरं बहुपुत्रोपेतं बृहन्तं महान्तं हे दस्राश्विनौ मिमाथाम् । कुरुतं उभयेषु पुरुमीळ्हाजमीळ्हेष्वस्मे अस्मासु यद्यदा नरो नेतार ऋत्विजः पुरुमीळ्हसम्बन्धिनो वां युवयोः स्तोमं स्तोत्रमावन् । अगमत् । प्राप्ताः । तथा सधस्तुतिं सहस्तुतिमाजमीळ्हा सोऽजमीळ्हसम्बन्धिऽनोपि तैः सहाग्मन् आगमन् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०