मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४५, ऋक् १

संहिता

ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथ॒ः परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।
पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥

पदपाठः

ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि ।
पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥

सायणभाष्यम्

एष स्य भानुरिति सप्तर्चं त्रयोदशं सूक्तम् । आदितः षट् जगत्यः सप्तमी त्रिष्टुप् । मण्डलद्रष्टा वामदेव ऋषिः । अश्विनौ देवता । एष स्य त्रिष्टुबन्तमिति ह्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं शस्यम् । तथा च सुत्रितम् । आबोध्यग्निर्ज्म एष स्य भानुः । आ. ४-१५ ॥ इति ॥

एष पुरतो दृश्यमानः स्य स भानुर्दीप्तिमानादित्य उदियर्ति । ऊर्ध्वं गच्छति । पुरुस्ताद्रथश्च युवयोः सम्बन्धी परिज्मा परितो गन्तास्य दिवो द्योतमानास्यादित्यस्य सानवि सानौ समुच्छ्रितप्रदेश उदियर्तिति वा रप्यत इति वा सम्बन्धनीयम् । अस्मिन्रथेऽधि उपरिभागे मिथुना मिथुनीभूतास्त्रयस्त्रिविधाः पृक्षासोऽन्नानि । त्रेधा विहितं चान्नम् । इदमन्नमशनं पानं खादश्चेति हि श्रुतम् । त्रिष्वपि पदार्थेषु मिथुनशब्दस्तैत्तिरीयेषु दृश्यते । माता पिता पुत्रस्तदेव तन्मिथुनमिति । दृतिस्तुरीयः । रसद्रव्याधारः पदार्थश्चर्ममयो द्रुतिरित्युच्यते । मधुनः सोमरसस्य सम्बन्धी मधुपूर्णश्चतुर्थो वि रप्यते । विविधं राजते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१