मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४५, ऋक् २

संहिता

उद्वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।
अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ॥

पदपाठः

उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । ई॒र॒ते॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टिषु ।
अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । तमः॑ । आ । परि॑ऽवृतम् । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ॥

सायणभाष्यम्

पृक्षासः पृक्षास्त्रिविधान्नवन्तो मधुमन्तः सोमरसोपेता अश्वासोऽश्वयुक्ता वां युवयो रथाः । यद्वा । मधुमन्तः पृक्षा रथा अश्वासोऽश्वा उषसो व्युष्टिषु व्युच्छनेषु सत्सूदीरते । उन्मुखं गच्छन्ति । किं कुर्वन्तः । परीवृतं परितो व्याप्तं तम आ सर्वतोऽपोर्णुवन्तोऽपाकुर्वन्तः स्वर्न आदित्य इव शुक्रं दीप्तं रजस्तेजश्च तन्वन्तः । आकारश्चार्थे । यद्वा । रजोऽन्तरिक्षं शुक्रं दीप्तं तन्वन्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१