मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४५, ऋक् ३

संहिता

मध्व॑ः पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म् ।
आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना ॥

पदपाठः

मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् ।
आ । व॒र्त॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

मध्वो मधुरं सोमरसं मधुपेभिः सोमपानार्हैरासभिरास्यैः पिबतम् । उतापि च प्रियं रथं मधुने मधुलाभाय युञ्जाथाम् । अश्वैर्युक्तं कुरुतम् । वर्तनिं यजमानगृहमा गच्छतमिति शेषः । षथो गमनमार्गान्मधुना जिन्वथः । प्रीणयतम् । यद्वैकं वाक्यम् । पथो वर्तनिमाकाशं जिन्वथः । दृतिं मधुमन्तं हे अश्विना वहेथे । धारयथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१