मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४५, ऋक् ४

संहिता

हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ ।
उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्ष॒ः सव॑नानि गच्छथः ॥

पदपाठः

हं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ ।
उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥

सायणभाष्यम्

हंसासोऽध्वनि शीघ्रं गन्तारो मधुमन्तो माधुर्योपेता अस्रिधोऽद्रोग्धारो हिरण्यपर्णा हितरमणीयपर्णा उहुवो वोढार उषर्बुध उषसि बुध्यमाना उदप्रुत उदकस्य प्लावयितारो मन्दिनो हर्षयितारो मन्दिनिस्पृशो मन्दिनं सोमं स्पृशन्तः । इत्थं लक्शणा अश्वा ये सन्ति तैरश्वैर्मध्वो न मध्विव मक्षो मक्शिकाः सवनान्यस्मदीयानि गच्छथः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१