मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४५, ऋक् ५

संहिता

स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।
यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ॥

पदपाठः

सु॒ऽअ॒ध॒रासः॑ । मधु॑ऽमन्तः । अ॒ग्नयः॑ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति॑ । वस्तोः॑ । अ॒श्विना॑ ।
यत् । नि॒क्तऽह॑स्तः । त॒रणिः॑ । वि॒ऽच॒क्ष॒णः । सोम॑म् । सु॒साव॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः ॥

सायणभाष्यम्

स्वध्वरासः शोभनयागसाधना मधुमन्तो होतव्यसोमवन्तोऽग्नयो गार्हपत्यादय उस्रा सह निवसन्तावश्विनौ प्रति वस्तोरन्वहमुषःकाले जरन्ते । स्तुवन्ति । यद्यदा निक्तहस्तः समन्त्रेणोदकेन शोधितहस्तस्तरणिः कर्मणस्तारयिता विचक्षणो विविधं द्रष्टाध्वर्युः सोमं मधुमन्तमद्रिभिर्ग्रावभिः सुषाव । अभिषुतवान् । तदा तेऽग्नयः स्तुवन्ति । तस्मादागच्छतमित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१