मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४५, ऋक् ६

संहिता

आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वत॒ः स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ।
सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥

पदपाठः

आ॒के॒ऽनि॒पासः॑ । अह॑ऽभिः । दवि॑ध्वतः । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ।
सूरः॑ । चि॒त् । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा॑न् । अनु॑ । स्व॒धया॑ । चे॒त॒थः॒ । प॒थः ॥

सायणभाष्यम्

आकेनिपासः । आकेऽन्तिके निपतन्तीत्याकेनिपा रश्मयः । ते चाहभिरहोभिर्दविध्वतः कम्पयन्तो ध्वम्सयन्तो वा तमांसि । स्वर्न आदित्य इव शुक्रं दीप्तं रज आ तन्वन्तो भवन्त्यश्विनोरश्वाः । सूरश्चित्सूर्यश्चाश्वान्युयुजानो योजयन्नीयते । गच्छति । हे अश्विनौ युवां विश्वान्पथ आगमनमार्गाननुक्रमेण स्वधयान्नेन सोमलक्षणेन चेतथः । चेतयथः । प्रज्ञापयथः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१