श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
वायो॑ सु॒तस्य॑ तृम्पतम् ॥
श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।
वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥
हे वायो नियुत्वान्नियुद्भिस्तद्वान् इन्द्रसारथिरिन्द्रसहायः सन् त्वं शतेनापरिमितैरभिष्टिभिरभित एषनीयैः कामैर्निमित्तभूतैरागच्छेति शेषः । आगत्य च सुतस्य सुतमभिषुतं सोमं तृपन्तम् । पिबन्तं त्वमिन्द्रश्च । इन्द्रस्य साहित्यं ब्राह्मण एवोक्तम् । तत्तुरीयभागिन्द्रोऽभवत्त्रिभाग्व्बायुरिति तुरीये हैव सङ्ग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत् । ऐ. ब्रा. २-२५ । इति वा ॥ २ ॥