मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४६, ऋक् ३

संहिता

आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रयः॑ ।
वह॑न्तु॒ सोम॑पीतये ॥

पदपाठः

आ । वा॒म् । स॒हस्र॑म् । हर॑यः । इन्द्र॑वायू॒ इति॑ । अ॒भि । प्रयः॑ ।
वह॑न्तु । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्रवायू वाम् युवां सहस्रं हरयः सहस्रसङ्ख्याका अश्वाः प्रयोऽन्नं प्रति त्वरयन्तः सन्ति । अत्र हरिशब्दोऽश्वसामान्यवचनः । ते सोमपीतय आ वहन्तु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२