मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४६, ऋक् ४

संहिता

रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् ।
आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥

पदपाठः

रथ॑म् । हिर॑ण्यऽवन्धुरम् । इन्द्र॑वायू॒ इति॑ । सु॒ऽअ॒ध्व॒रम् ।
आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥

सायणभाष्यम्

हे इन्द्रवायू हिरण्यवन्धुरं हिरण्मयनिवासाधारकाष्ठोपेतं दिविस्पृशं द्युलोकस्पर्शिनं स्वध्वरं शोभनाध्वरवन्तं रथमा स्थाथो हि । आस्थितौ खलु । यस्मादेवं तस्मादागच्छतमित्यर्थः । स्वध्वरं प्रत्यास्थाथ इति वा व्याख्येयं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२