मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४६, ऋक् ५

संहिता

रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।
इन्द्र॑वायू इ॒हा ग॑तम् ॥

पदपाठः

रथे॑न । पृ॒थु॒ऽपाज॑सा । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ।
इन्द्र॑वायू॒ इति॑ । इ॒ह । आ । ग॒त॒म् ॥

सायणभाष्यम्

रथेन पृथ्वित्यादिकस्तृचो दशरात्रे पञ्चमेऽहनि प्रौगशस्त्र ऐन्द्रवायवो द्वितीयः । सूत्रितं च । रथेन पृथुपाजसा बहवः सूरचक्षसः । आ. ७-१२ । इति ॥

हे इन्द्रवायू पृथुपाजसा प्रभूतबलेन रथेन दाश्वांसं दातारं यजमानमुप गच्छतम् । तदर्थमिहास्मिन्यज्ञ आ गतम् । आगच्छतं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२