मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४६, ऋक् ७

संहिता

इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् ।
इ॒ह वां॒ सोम॑पीतये ॥

पदपाठः

इ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् ।
इ॒ह । वा॒म् । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्रवायू वां युवयोरिहास्मिन्यज्ञे प्रयाणं गमनमस्तु । इहास्मिन्नेव यज्ञे वां सोमपितये विमोचनमश्वानामस्तु । पर्यवसानत एकार्थत्वेऽप्यादरार्थत्वादविरोधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२