मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४७, ऋक् २

संहिता

इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।
यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥

पदपाठः

इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ ।
यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥

सायणभाष्यम्

इन्द्रश्चेत्यादि स्तृचो दशरात्रे चतुर्थेऽहन्यैन्द्रवायवो द्वितीयः । सूत्रितं च । इन्द्रश्च वायवेषां सोमानामा चिकितान सुक्रतू । आ. ७-११ । इति ॥

हे वायो त्वमिन्द्रश्चैषां ग्रुहितानाम् सोमानां पीतिं पानमर्हथः । युवां हि खल्विन्दवः सोमा यन्ति । प्राप्नुवन्ति । निम्नं खातप्रदेशमापो न सध्र्यक् उदकानि यथा सहैव गच्छन्ति तद्वत्सर्वे सोमा युवां यि यन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३