मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४७, ऋक् ४

संहिता

या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ॥

पदपाठः

याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।
अ॒स्मे इति॑ । ताः । य॒ज्ञ॒ऽवा॒ह॒सा॒ । इन्द्र॑वायू॒ इति॑ । नि । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

हे नरा नेतारौ हे यज्ञवाहसा यज्ञवाहकाविन्द्रवायू याः पुरुस्पृहो बहुभिः स्पृहणीया नियुतः सन्ति अस्मे अस्मभ्यं दाशुषे हविर्दत्तवते यजमानाय मदर्थं ता नियुतो नि यच्छतं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३