मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४९, ऋक् ६

संहिता

सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।
मा॒दये॑थां॒ तदो॑कसा ॥

पदपाठः

सोम॑म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ।
मा॒दये॑थाम् । तत्ऽओ॑कसा ॥

सायणभाष्यम्

हे इन्द्राबृहस्पती युवां दाशुषो हविर्दातुर्यजमानस्य गृहे तदोकसा । तदेव यजमानगृहमोको निवासस्थानं ययोस्तौ । तादृशौ सन्तौ सोमं पिबतम् । पीत्वा च मादयेथामिति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५