मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् २

संहिता

धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।
पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥

पदपाठः

धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बृह॑स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे ।
पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑तात् । अ॒स्य॒ । योनि॑म् ॥

सायणभाष्यम्

हे बृहस्पते धुनेतयः । धुना शत्रूणां कम्पयित्रीतिर्गतिर्येषाम् ते । तादृशाः सुप्रकेतं शोभनप्रज्ञं त्वां मन्दतो मादयन्तो नोऽस्मत्सम्बन्धिनो य ऋत्विजोऽभि ततस्रे आत्मनमुपक्षिपन्ति स्तुवन्ति वा अस्यैषां योनिं कारणं यज्ञं यजमानं वा मां रक्षकात् । रक्श । योनिर्विशेष्यते । पृषन्तिअं फलानि सिञ्चन्तं सृप्रं सर्पणस्वभावमदब्धमहिंसितमूर्वमुरुं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६