मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ३

संहिता

बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः ।
तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑ः श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥

पदपाठः

बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पृशः॑ । नि । से॒दुः॒ ।
तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥

सायणभाष्यम्

बृहस्पते येत्यादिके द्वे बार्हस्पत्ये पशौ वपापुरोडाशयोरनुवाक्ये । बृहस्पते या परमा परावदिति द्वे । आ. ३-७ । इति हि सूत्रितम् ॥

हे बृहस्पते या प्रसिद्धा परमोत्कृष्टा परावदत्यन्तं दूरभूता वसतिः स्वर्गाख्यास्ति । यद्वा लिङ्गव्यत्ययः । परमं स्थानमस्ति । अतोऽस्माद्देशादा । आ इत्यर्वागर्थे । अधस्तात्ते तव सम्बन्धिन ऋतस्पृशो यज्ञं स्पृशन्तोऽश्वानि षेदुः । निषण्णा भवन्ति । तुभ्यं खाता अवताः । लुप्तोपमैषा । यथा खाताः कूपा अभितः श्चोतन्ति तद्वदद्रिदुग्धा ग्रावभिरभिषुताः सोमा विरप्यं विशेषेण शब्देन स्तोत्रं यथा भवति तथा मध्वो मधुररसं श्चोतन्ति । स्रवन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६