मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ४

संहिता

बृह॒स्पति॑ः प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् ।
स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥

पदपाठः

बृह॒स्पतिः॑ । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे । विऽओ॑मन् ।
स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः । अ॒ध॒म॒त् । तमां॑सि ॥

सायणभाष्यम्

अयं बृहस्पतिर्मन्त्राभिमानी चेवो महो महतो ज्योतिषो दीप्तस्यादित्यस्य परमे निरतिशये व्योमन् व्योमनि प्रथमं जायमानः प्रादुर्भवन् सप्तास्यः सप्तच्छन्दोमयमखस्तुविजातो बहुप्रकारं सम्भूतो रवेण सह्ब्देन सप्तरश्मिः सर्पणस्वभावतेजोयुक्तस्तमांसि व्यधमत् । धमतिर्गतिकर्मेति निरुक्तम् । ६-२ । विविधं गच्छति । नाशयतीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६