मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ५

संहिता

स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।
बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूद॒ः कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥

पदपाठः

सः । सु॒ऽस्तुभा । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । रवे॑ण ।
बृह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उत् । आ॒ज॒त् ॥

सायणभाष्यम्

स बृहस्पतिः सुष्टुभा शोभनस्तुतिमतर्क्वता दीप्तिमता गणेनाङ्गिरसां रवेन शब्देन च सह फलिगम् । ञिफला विशरणे । फलिर्भेदः । तेन गच्छतीति फलिगम् । वलं वलनामानमसुरं रुरोज । बभञ्ज । द्वितीयः सशब्दः पूरणः । स एव देव उस्रिया भोगानामुत्स्राविणीर्हव्यसूदः क्षीरादिहविष्प्रेरिका वावशतीर्वावश्यमाना गा कनिक्रदत् शब्दं कुर्वन्नुदाजत् । उद्घाटयति स्म ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६