मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ६

संहिता

ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑ः ।
बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

पदपाठः

ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।
बृह॑स्पते । सु॒ऽप्र॒जाः । वी॒रऽव॑न्तः । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

सायणभाष्यम्

एवा पित्र इति बार्हस्पत्ये पशौ हविषो याज्या । एवा पित्रे विश्वदेवाय वृष्णे विश्वे अद्य मरुतो विश्व ऊती । आ. ३-७ । इति सूत्रितत्वात् । अग्निष्टोमे वैश्वदेवशस्त्र एषैव धाय्या । तथा च सुत्रम् । एवा पित्रे विश्वदेवाय वृष्न आ नो भद्राः क्रतवो यन्तु विश्वत । आ. ५-१८ । इति ॥

पित्रे पालकाय विश्वदेवाय सर्वदेवतारूपाय । देवानां मन्त्रप्रतिपाद्यत्वादस्य च मन्त्राभिमानित्वाद्वैश्वदेवत्वम् । यद्वा । अत्र देवशब्दः स्तुत्यर्थः । सर्वैः स्तुत्याय वृष्णे वर्षकाय बृहस्पतये देवायैवैवमम्य्क्तप्रकारेण यज्ञैस्तत्साधनैर्हविर्भिराज्यचर्वादिलक्षणैर्नमसा स्तुत्या च विधेम । परिचरेम । हे बृहस्पते सुप्रजाः शोभनपुत्रा वीरवन्तो वीर्योपेता वयं रयीणां धनानां पतयः स्याम ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७