मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ७

संहिता

स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण ।
बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज॑म् ॥

पदपाठः

सः । इत् । राजा॑ । प्रति॑ऽजन्यानि । विश्वा॑ । शुष्मे॑ण । त॒स्थौ॒ । अ॒भि । वी॒र्ये॑ण ।
बृह॒स्पति॑म् । यः । सुऽभृ॑तम् । बि॒भर्ति॑ । व॒ल्गु॒ऽयति॑ । वन्द॑ते । पू॒र्व॒ऽभाज॑म् ॥

सायणभाष्यम्

इदमाद्यृक्त्रयं पुरोहितप्रशम्सेति ब्राह्मणम् । ऐ. ब्रा. ८-२६ । अथवा सूक्तस्य ऋग्द्वयवर्जितस्य बार्हस्पत्यत्वाद्वृहस्पतेरेव स्तुतिः । स इत्स एव राजा मूर्धाभिषिक्तोऽन्यो वा राजमानः प्रतिजन्यानि । जन्यं युद्धं प्रति बालानीत्यर्थः । प्रत्यर्थिजनपदानि वा तानि विश्वा सर्वाणि शुष्मेण बलेन वीर्येण शरीरसामर्थ्येन वाभि अभिगम्याक्रम्य तस्थौ । तिष्ठति । स इत्युक्तं क इत्याह । यो बृहस्पतिं बृहतां महतां पालयितारम् देवमुक्त लक्षणं पुरोहितं वा सुभृतं सुष्ठु हविः स्तोत्रादिनान्नाच्छादनादिना वा बिभर्ति भरति । वल्गूयति स्तौति । वन्दते नमस्करोति च पूर्वभाजमितरेभ्यः प्रथमसम्भक्तारं कृत्वा । एवं यः करोति स एव तस्थाविति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७