मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५०, ऋक् ८

संहिता

स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् ।
तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥

पदपाठः

सः । इत् । क्षे॒ति॒ । सुऽधि॑तः । ओक॑सि । स्वे । तस्मै॑ । इळा॑ । पि॒न्व॒ते॒ । वि॒श्व॒ऽदानी॑म् ।
तस्मै॑ । विशः॑ । स्व॒यम् । ए॒व । न॒म॒न्ते॒ । यस्मि॑न् । ब्र॒ह्मा । राज॑नि । पूर्वः॑ । एति॑ ॥

सायणभाष्यम्

स इत्स एव क्षेति । निवसति । सुधितह् सुष्ठु तृप्तः सन् स्वे स्वकीय एवौकसि सवने । स एव समृद्धो निर्बाधः सन् सुखेनास्ते । तस्मा इळा भूमिर्विश्वदानीं सर्वकालं पिन्वते । वर्धते फलैः । तस्मै विशः प्रजाः स्वयमेव नमन्ते । प्रणता भवन्ति । दण्डनमन्तरेण स्वयमेव दत्तकरा भवन्ति । यस्मिन्राजनि ब्रह्मा पूर्वः प्रथमः पूज्यः सन्नेति । गच्छति । वर्तत इत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७