इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू ।
आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥
इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः । सु॒ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥
इन्द्रश्च सोममिति दशमी तृतीयसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्या । सूत्रितं च । इन्द्रश्च सोमं पिबतं बृहस्पत आ वो वहन्तु सप्तयो रघुष्यदः । आ. ५-५- । इति ॥
हे बृहस्पते त्वमिन्द्रश्च सोमं पिबतम् । कीदृशौ युवाम् । अस्मिन्यज्ञे मन्दसाना हृश्यन्तौ वृषण्वसू वर्षितृधनौ । यजमानेभ्यो दीयमानधनावित्यर्थः । वां युवां स्वाभुवः सुष्थु सर्वतो भवन्तः । कृत्स्नशरीरव्यापनसमर्था इत्यर्थः । तादृशा इदंवः सोमा विशन्तु । युवयोः शरीरं प्रविशन्तु । अस्मे अस्मभ्यं रयिं धनं सर्ववीरं सर्वपुत्त्राद्युपेतं नि यच्छतम् । दत्तं ॥ १० ॥