मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ५

संहिता

यू॒यं हि दे॑वीरृत॒युग्भि॒रश्वै॑ः परिप्रया॒थ भुव॑नानि स॒द्यः ।
प्र॒बो॒धय॑न्तीरुषसः स॒सन्तं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वम् ॥

पदपाठः

यू॒यम् । हि । दे॒वीः॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । प॒रि॒ऽप्र॒या॒थ । भुव॑नानि । स॒द्यः ।
प्र॒ऽबो॒धय॑न्तीः । उ॒ष॒सः॒ । स॒सन्त॑म् । द्वि॒ऽपात् । चतुः॑ऽपात् । च॒रथा॑य । जी॒वम् ॥

सायणभाष्यम्

हे देवीर्द्योतमाना उषसो यूयं हि खलु ऋतयुग्भिर्यज्ञगामिभिरश्वैर्भुवनानि सद्यः परिप्रयाथ । परितः प्रकृष्तं गच्छथ । किं कुर्वत्यः । ससन्तं स्वपन्तं द्विपाच्चतुष्पान्मनुष्यगवादिलक्षनं जीवं चरथाय चरणाय गमनादिव्यवहाराय प्रबोधयन्तीः प्रबोधयन्त्यः सत्यः परिप्रयाथ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः