मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ६

संहिता

क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुरृ॑भू॒णाम् ।
शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर॑न्ति॒ न वि ज्ञा॑यन्ते स॒दृशी॑रजु॒र्याः ॥

पदपाठः

क्व॑ । स्वित् । आ॒सा॒म् । क॒त॒मा । पु॒रा॒णी । यया॑ । वि॒ऽधाना॑ । वि॒ऽद॒धुः । ऋ॒भू॒णाम् ।
शुभ॑म् । यत् । शु॒भ्राः । उ॒षसः॑ । चर॑न्ति । न । वि । ज्ञा॒य॒न्ते॒ । स॒ऽदृशीः॑ । अ॒जु॒र्याः ॥

सायणभाष्यम्

आसामुषसां मध्ये क्व स्विदभूदद्य कतमा पुराणी पुरातनी । यया ऋभूणां सम्बन्धीनि विधाना चमसादिनिर्माणानि विदधुः । अकुर्वन्नृभवः । यद्याश्चोषसः शुभ्रा दीप्ताः शुभं चरन्ति । शोभां दीप्तिं कुर्वन्ति । ता अजुर्या अशीर्णा नित्यनूतना न विज्ञायन्ते । यतः सदृशीः सदृश्यः सर्वेष्वपि दिवसेष्वेकरूपा अतोऽद्यतन्य एता एताः पुराण्य इति न ज्ञायन्ते उषासाद्रुश्यं सदृःईरद्य सदृशीरिदु श्वः । ऋग्वे. १-१२३-८ । इत्यत्र प्रतिपादितं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः