मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ७

संहिता

ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः ।
यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ॥

पदपाठः

ताः । घ॒ । ताः । भ॒द्राः । उ॒षसः॑ । पु॒रा । आ॒सुः॒ । अ॒भि॒ष्टिऽद्यु॑म्नाः । ऋ॒तजा॑तऽसत्याः ।
यासु॑ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस॑न् । द्रवि॑णम् । स॒द्यः । आप॑ ॥

सायणभाष्यम्

ता घ । घेति प्रसिद्धौ । ताः खलूपकारिण्यस्ता भद्राः कल्याण्यः स्तुत्या वा उषसः पुरा पुर्वमासुः । अभवन् । अभिष्टिद्युम्नाः अभिगमनमात्रेण द्युम्नं धनं यासां ताः । ऋतजातसत्याः । ऋतार्थं यज्ञार्थं जाताश्च ताः सत्याः सत्यफलाश्च तादृश्यः । यासूषः स्वीजानो यागं कुर्वाण उक्थैः शस्त्रैः शशमानः शम्समानः स्तुवन् सामभिः स्तोत्रं निश्पादयन् शंसन् शस्त्राणि कुर्वन् द्रविनं धनं सद्य आप । प्राप्नोति । ता भद्रा इति सम्बन्धः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः