मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ८

संहिता

ता आ च॑रन्ति सम॒ना पु॒रस्ता॑त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः ।
ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरन्ते ॥

पदपाठः

ताः । आ । च॒र॒न्ति॒ । स॒म॒ना । पु॒रस्ता॑त् । स॒मा॒नतः॑ । स॒म॒ना । प॒प्र॒था॒नाः ।
ऋ॒तस्य॑ । दे॒वीः । सद॑सः । बु॒धा॒नाः । गवा॑म् । न । सर्गाः॑ । उ॒षसः॑ । ज॒र॒न्ते॒ ॥

सायणभाष्यम्

ता उषस आ सर्वतश्चरन्ति । समना सर्वतः समानाः पुरस्तात्पुर्वस्यां दिशि समानतः समानाद्देशादन्तरिक्षात्समना सर्वतः पप्रथानाः प्रथमाना ऋतस्य यज्ञस्य सदसः सदः । तत्रत्यर्मृत्विग्घविरादिकमित्यर्थः । बुधाना बोधयन्त्यः । अन्तर्भावितण्यर्थोऽयम् । एवं महानुभावा उषसो जरन्ते । स्तूयन्ते । गवां सर्गा न उदकानां सृष्टय इव । गवां सर्गा न रश्मयः । ऋग्वे. ४-५२-५ । इति हि श्रुतम् । ता यथा सर्वत्र प्रसङ्गादुपकारत्वाच्च स्तूयन्ते तद्वत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः