मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५१, ऋक् ११

संहिता

तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।
व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥

पदपाठः

तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः ।
व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥

सायणभाष्यम्

तद्वो दिव इति व्युष्टायां जपेत् । हे दिवो दुहितरो हे उषसो विभातीर्वो युष्मान् तदुत्तरार्धप्रथमपादेन वक्ष्यमाणं फलं यज्ञकेतुः । यज्ञ एव केतुः प्रज्ञापको यस्य तादृशोऽहमुप ब्रुवे । उपेत्य ब्रवीमि । अथ बहुवदुच्यते । वयं स्तुवन्तो जनेष्वस्मत्समानेषु मध्ये यशसः कीर्तेरन्नस्य वा स्वामिनः स्याम । तद्यशो च्यौः पृथिवी च देवी धत्तां धारयतां ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः