मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् १

संहिता

प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसु॑ः ।
दि॒वो अ॑दर्शि दुहि॒ता ॥

पदपाठः

प्रति॑ । स्या । सू॒नरी॑ । जनी॑ । वि॒ऽउ॒च्छन्ती॑ । परि॑ । स्वसुः॑ ।
दि॒वः । अ॒द॒र्शि॒ । दु॒हि॒ता ॥

सायणभाष्यम्

प्रति ष्येति सप्तर्चं सप्तमं सूक्तं गायत्रमुषोदेवताकम् । प्रति ष्या सप्त गायत्रमित्यनुक्रमणिका ॥ प्रातरनुवाक उषस्ये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं शस्यम् । अथोषस्यः प्रति ष्या सूनरी । आ. ४-१४ । इति हि सूत्रितं ॥

स्या सा संस्तूयमाना सूनरी सुष्ठु प्राणिनां नेत्री जनी जनयित्री फलानां स्वसुः सस्वृस्थानीयाया रात्रेः परि उपरिभागे रात्रिपर्यवसानकाले व्युच्छन्ती तमो विवासयन्ती । स्वसा स्वस्रे ज्यायस्यै । ऋग्वे. १-१२४-८ । इत्युक्तम् । दिवो द्योतमानस्यादित्यस्य दुहितोषाः पत्यदर्शि । प्रतिदृश्यते सर्वैः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः