मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् ३

संहिता

उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि ।
उ॒तोषो॒ वस्व॑ ईशिषे ॥

पदपाठः

उ॒त । सखा॑ । अ॒सि॒ । अ॒श्विनोः॑ । उ॒त । मा॒ता । गवा॑म् । अ॒सि॒ ।
उ॒त । उ॒षः॒ । वस्वः॑ । ई॒शि॒षे॒ ॥

सायणभाष्यम्

उतापि चाश्विनोः सखासि । उतापि च गवां रश्मीनां मातासि । उतापि च हे उषो वस्वो धनस्येशिषे । ईश्वरा भवसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः