मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् ५

संहिता

प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ ।
ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥

पदपाठः

प्रति॑ । भ॒द्राः । अ॒दृ॒क्ष॒त॒ । गवा॑म् । सर्गाः॑ । न । र॒श्मयः॑ ।
आ । उ॒षाः । अ॒प्राः॒ । उ॒रु । ज्रयः॑ ॥

सायणभाष्यम्

भद्राः स्तुत्या रश्मयः प्रत्यद्रुक्षत । प्रतिदृश्यन्ते । गवामुदकानानां सर्गा न वर्षधारा इवेयमुषा उरु ज्रयो महत्तेज आप्राः । आपूरयत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः