मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् ६

संहिता

आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तमः॑ ।
उषो॒ अनु॑ स्व॒धाम॑व ॥

पदपाठः

आ॒ऽप॒प्रुषी॑ । वि॒भा॒ऽव॒रि॒ । वि । आ॒वः॒ । ज्योति॑षा । तमः॑ ।
उषः॑ । अनु॑ । स्व॒धाम् । अ॒व॒ ॥

सायणभाष्यम्

हे विभावरि विभावत्युषस्त्वमापप्रुष्यापुरयन्ती तेजसा जगत् ज्योतिषा तेजसा तमोऽन्धकारं व्यावः । व्यावृणोः किञ्च अनु पश्चात् स्वधां हविर्लक्शणमन्नमव । रक्ष ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः