मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५२, ऋक् ७

संहिता

आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् ।
उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥

पदपाठः

आ । द्याम् । त॒नो॒षि॒ । र॒श्मिऽभिः॑ । आ । अ॒न्तरि॑क्षम् । उ॒रु । प्रि॒यम् ।
उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥

सायणभाष्यम्

आद्यां तनोषीत्येषा देवानां हविःषूषसोऽनुवाक्या । सूत्रितं च । आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि । आ. ६-१४ ॥ इति ॥

हे उषो रश्मिभिर्द्यां दिवमा तनोषि । उरु विस्तीर्णं प्रियमन्तरिक्षं रश्मिभिरा तनोषि । शुक्रेण दीप्तेन शोचिषा प्रकाशेन युक्ता सत्येवं करोषि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः