मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५३, ऋक् २

संहिता

दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः ।
वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥

पदपाठः

दि॒वः । ध॒र्ता । भुव॑नस्य । प्र॒जाऽप॑तिः । पि॒शङ्ग॑म् । द्रा॒पिम् । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः ।
वि॒ऽच॒क्ष॒णः । प्र॒थय॑न् । आ॒ऽपृ॒णन् । उ॒रु । अजी॑जनत् । स॒वि॒ता । सु॒म्नम् । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

चिवो द्युलोकस्य धर्ता धारकः । न केवलं दिव एव अपि तु भुवनस्य कृत्स्नस्यापि लोकस्य धर्ता प्रजापतिः प्रजानां प्रकाशव्रुष्ट्यादिना पलयिता कविः प्राज्ञोदेवः पिशङ्गं द्रापिं हिरण्मयं कवचं प्रति मुञ्चते । आच्छादयति प्रत्युदयम् । विचक्शणो विविधं द्रष्टा स एव देवः प्रथयन् प्रख्यापयन् तेज आपृणन्नापूरयन् परित उरु प्रभूतं सुम्नं सुमुक्थ्यं स्तुत्यमजीजनत् । उत्पादयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः