मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५३, ऋक् ३

संहिता

आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।
प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥

पदपाठः

आ । अ॒प्राः॒ । रजां॑सि । दि॒व्यानि॑ । पार्थि॑वा । श्लोक॑म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय॑ । धर्म॑णे ।
प्र । बा॒हू इति॑ । अ॒स्रा॒क् । स॒वि॒ता । सवी॑मनि । नि॒ऽवे॒शय॑न् । प्र॒ऽसु॒वन् । अ॒क्तुऽभिः॑ । जग॑त् ॥

सायणभाष्यम्

अयं देवः सविता दिव्यानि द्युसम्बन्धीनि पार्थिवा पार्थिवानि रजांसि लोकान् । तिस्रः खलु द्यावः पृथिव्यश्च । तिस्रो भूमिर्धारयन् त्रीरुत द्यून् । ऋग्वे. २-२७-८ । इति हि श्रुतम् । आप्राः । आपूरयति स्वाभिर्भाभिर्देवः । स्वायधर्मणे स्वकीयाय धारणाय श्लोकं प्रशस्तिं कृणुते । करोति । सविता सवीमनि प्रसवेऽनुज्ञायां निमित्तायां बाहू स्वीयौ प्रास्राक् । प्रसृजति । प्रसारयतीत्यर्थः । किं कुर्वन् । अक्तुभिः कान्तिभिर्जगन्निवेशयन् स्वस्वकार्ये स्थापनयन् प्रसुवन् प्रेरयन् । अथवा अक्तुभिरिति रात्रिनाम । तदुपलक्षितैः सर्वैर्वासरैः सर्वेष्वपि दिनेष्वेवं करोतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः