मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५३, ऋक् ६

संहिता

बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी ।
स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥

पदपाठः

बृ॒हत्ऽसु॑म्नः । प्र॒ऽस॒वि॒ता । नि॒ऽवेश॑नः । जग॑तः । स्था॒तुः । उ॒भय॑स्य । यः । व॒शी ।
सः । नः॒ । दे॒वः । स॒वि॒ता । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मे इति॑ । क्षया॑य । त्रि॒ऽवरू॑थम् । अंह॑सः ॥

सायणभाष्यम्

यो बृहत्सुम्नः प्रभूतधनः प्रभूतसुखो वा प्रसविता प्रकर्षेणानुज्ञाता कर्मणां निवेशनः सर्वैर्गन्तव्यः । जगतो जङ्गमस्य स्थातुः स्थावरस्योभयस्य यो वशी स महान् सविता देवो नोऽस्मभ्यं शर्म सुखं यच्छतु । कीद्रुशं शर्म । त्रिवरूथं त्रीणि वरूथानि गृहाणि स्थानानि क्षित्यादीनि यस्य तत्तादृशम् । अस्मे अस्माकमंहसः पापस्य क्षयाय भवत्विति शेशः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः