मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५३, ऋक् ७

संहिता

आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् ।
स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥

पदपाठः

आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् ।
सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥

सायणभाष्यम्

राजक्रय आगन्देव इत्येषानुवचनीया । सूत्रितं च । आगन्देव रुतुभिर्वर्धयतु क्षयमित्यर्धर्च आरमेत् । आ. ४-४ । इति ।

देवः सविता ऋतुभिः सहागन् । आगच्छतु । गमेर्लङि रूपम् । किञ्च क्शयं गृहं वर्धतु । वर्धयतु । नोऽस्माकं सुप्रजां शोभनपुत्राद्युपेतमिशमन्नं दधातु । ददातु । स एव नोऽस्मान् क्शपाभी रात्रिभिरहभिश्च । सर्वेषु दिनेष्वित्यर्थः । जिन्वतु । प्रीणयतु धनादिभिः । अस्मे अस्मासु प्रजावन्तं रयिं समिन्वतु । व्याप्नोतु । प्रापयत्वित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः