मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५४, ऋक् २

संहिता

दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् ।
आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥

पदपाठः

दे॒वेभ्यः॑ । हि । प्र॒थ॒मम् । य॒ज्ञिये॑भ्यः । अ॒मृ॒त॒ऽत्वम् । सु॒वसि॑ । भा॒गम् । उ॒त्ऽत॒मम् ।
आत् । इत् । दा॒मान॑म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु॑षेभ्यः ॥

सायणभाष्यम्

प्रथमं देवेभ्यो हि । हिशब्दः प्रसिद्धौ । देवेभ्यो यज्ञियेभ्यो यज्ञार्हेभ्योऽमृतत्वं तत्साधनमुत्तममुत्क्रुष्टतमं भागं सोमादिलक्षनं सुवसि । अनुजानासि । आदिदनन्तरमेव दामानं हविषां दातारं हे सवितर्व्यूर्णुषे । प्रकाशयसि । मानुषेभ्यो यजमानेभ्यो जीविता जीवितान्यनूचीनानुक्रमयुक्तानि । पित्रुपुत्रपौत्रा इत्यनुक्रमः । ईदृशानि जीवितानि पश्चाद्व्यूर्णुषे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः