मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५४, ऋक् ४

संहिता

न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।
यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥

पदपाठः

न । प्र॒ऽमिये॑ । स॒वि॒तुः । दैव्य॑स्य । तत् । यथा॑ । विश्व॑म् । भुव॑नम् । धा॒र॒यि॒ष्यति॑ ।
यत् । पृ॒थि॒व्याः । वरि॑मन् । आ । सु॒ऽअ॒ङ्गु॒रिः । वर्ष्म॑न् । दि॒वः । सु॒वति॑ । स॒त्यम् । अ॒स्य॒ । तत् ॥

सायणभाष्यम्

देवसुवां हविःषु सवितुः सत्यप्रसवस्य न प्रमिय इति याज्या । सूत्रितं च । न प्रमीये सवितुर्दैव्यस्य तद्बृहस्पते प्रथमम् । आ. ४-११ । इति ॥

सवितुर्दैव्यस्य देवस्य तत्कर्म न प्रमिये । न प्रमीयेत । न प्रहिंस्येत । हिंसार्हं न भवतीत्यर्थः । कृत्यार्थे केन्प्रत्ययः । यद्वा । दैव्यैस्येत्यधिकरणे शष्ठी । सा च कर्मार्था । दैव्यं कर्मेत्यर्थः । कथमहिंस्यमित्यत आह । यथा विश्वं भुवनं धारयिष्यति । धारयति । विश्वधारणरूपं यत्कर्मास्ति तन्न प्रमिये । तथा स्वङ्गुरिः शोभनाङ्गुल्यपलक्षितहस्तो यत् यः पृथिव्या वरिमन्ना । आकारश्चार्थे । भूम्या उरुत्वे च सुवति । तथा दिवो द्युलोकस्य वर्ष्मन्नुरुत्वे च सुवति अस्य देवस्य तदुक्तं कर्म सत्यमबाध्यमिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः