मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५४, ऋक् ५

संहिता

इन्द्र॑ज्येष्ठान्बृ॒हद्भ्य॒ः पर्व॑तेभ्य॒ः क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः ।
यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥

पदपाठः

इन्द्र॑ऽज्येष्ठान् । बृ॒हत्ऽभ्यः॑ । पर्व॑तेभ्यः । क्षया॑न् । ए॒भ्यः॒ । सु॒व॒सि॒ । प॒स्त्य॑ऽवतः ।
यथा॑ऽयथा । प॒तय॑न्तः । वि॒ऽये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः॒ । स॒वि॒त॒रिति॑ । स॒वाय॑ । ते॒ ॥

सायणभाष्यम्

हे सवितरिन्द्रज्येष्थान् । इन्द्रः परमैश्वर्ययुक्तस्त्वमेवेन्द्रो वा ज्येष्थो ज्यायान् पूज्यो येशां ते तादृशाः । तानस्मान्बृहद्भ्यो महद्भ्यः पर्वतेभ्योऽप्यधिकान् सुवसि । प्रेरयसि । किञ्च एभ्यो यजमानेभ्यः पस्त्यावतो ग्रुहवतः क्षयान्निवासान् ग्रामनगरादीन् सुवसि । प्रेरयसि । यथा यथा पतयन्तो गच्छन्तस्त्वां वियेमिरे । विनियम्यन्ते त्वया । ते तव सवायानुज्ञाया एवैवैवमेव नियमनमनतिक्रम्य तस्थुः । तिष्थन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः