मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५४, ऋक् ६

संहिता

ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ ।
इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑ति॒ः शर्म॑ यंसत् ॥

पदपाठः

ये । ते॒ । त्रिः । अह॑न् । स॒वि॒त॒रिति॑ । स॒वासः॑ । दि॒वेऽदि॑वे । सौभ॑गम् । आ॒ऽसु॒वन्ति॑ ।
इन्द्रः॑ । द्यावा॑पृथि॒वी इति॑ । सिन्धुः॑ । अ॒त्ऽभिः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥

सायणभाष्यम्

ये यजमाना हे सवितस्ते त्वदर्थं सवासः सवाः सोमाः । द्वितीयार्थ प्रथमा । सोमान् । यद्वा । सवासः सवनानि प्रातरादीनि प्रति त्रिरहन्नभिषुण्वन्ति । न केवलमेकस्मिन्नेवाहनि सवनत्रयेषु अपि तु दिवे दिवे प्रतिदिनं सौभागं सौभाग्यजनकमासुवन्ति । अभिषुन्वन्ति । तेभ्यो नोऽस्मभ्यमिन्द्रः शर्म यंसत् । यच्छतु । द्यावापृथिव्यौ चा द्भिर्विशिष्टा सिन्धुः सिन्ध्वभिमानिदेवता चादित्यैः सहितादितिश्च शर्म यंसत् । सावित्रे सूक्त इन्द्रादीनां निपातमिक्त्वा तेषां प्रार्थना न विरुध्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः