मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् १

संहिता

को व॑स्त्रा॒ता व॑सव॒ः को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः ।
सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥

पदपाठः

कः । वः॒ । त्रा॒ता । व॒स॒वः॒ । कः । व॒रू॒ता । द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ ।
सही॑यसः । व॒रु॒ण॒ । मि॒त्र॒ । मर्ता॑त् । कः । वः॒ । अ॒ध्व॒रे । वरि॑वः । धा॒ति॒ । दे॒वाः॒ ॥

सायणभाष्यम्

कोवस्त्रातेति दशर्चं दशमं सूक्तं वामदेवस्यार्षं विश्वदेवदेवताकम् । अष्टम्याद्यास्तिस्रो गायत्र्यः शिष्टा अनादेशपरिभाषया त्रिष्टुभः । तथा चानुक्रम्यते । को वो दश वैश्वदेवं त्रिगायत्र्यन्तं त्विति । विनियोगो लैङ्गिकः ॥

हे वसवः सर्वस्य वासयितारो देवा वो युष्मान् कस्त्रातास्ति । यतो यूयं वसवोऽत इत्यभिप्रायः । कश्च वरूता सम्भक्तास्ति । यद्वा । वो युष्माकं मध्ये कस्त्राता रक्षको देवः कश्च वरूता वारयिता दुःखानां वरणीयो वा भवति । हे द्यावाभूमी नोऽस्मान् त्रासीथाम् । रक्षतम् । हे अदिते अखण्डनीये । एतदपि द्यावाभूम्योर्विशेषणम् । संख्याव्यत्ययः । यदीदं पृथग्देवतामन्त्रणं स्यात् तर्हि निघातो न स्यात् । आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानवत्त्वेनास्यैव पादादित्वात् । अदिते मित्र वरुनॊत मृळ । ऋग्वे. २-२७-१४ । इति आदित्या रुद्रा वसवः सुदानवः । ऋग्वे. १०-६६-१२ । इतिवत् । तस्यैव विशेषनत्वे समानाधिकरण इति सामानाधिकरण्यात् अग्ने पावक रॊचिषा । ऋग्वे. ५-२६-१ । इतिवत् । अस्य निघातः सिद्ध्यति । तस्मात् द्यावाभूमी इत्येतस्य विशेशणम् । हे वरुण हे मित्र युवां सहीयसो मर्तादभिभवितुर्मनुष्यात् नस्त्रासीथाम् । हे देवा वो युष्माकमध्वरे यागे को वरिवो धनं धाति । ददाति । यद्वा । वो युष्माकं मध्ये को वरिवो धाति । धारयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः