मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् २

संहिता

प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः ।
वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः ॥

पदपाठः

प्र । ये । धामा॑नि । पू॒र्व्याणि॑ । अर्चा॑न् । वि । यत् । उ॒च्छान् । वि॒ऽयो॒तारः॑ । अमू॑राः ।
वि॒ऽधा॒तारः॑ । वि । ते । द॒धुः॒ । अज॑स्राः । ऋ॒तऽधी॑तयः । रु॒रु॒च॒न्त॒ । द॒स्माः ॥

सायणभाष्यम्

ये देवाः पूर्व्याणि पुरातनानि धामानि स्थानानि वा प्रार्चान् । अर्चन्ति । प्रयच्छन्ति स्तोतृभ्यः । यत् ये च वियोतारो दुःखानाममिश्रयितारोऽमूरा अमूढा व्युच्छान् । व्युच्छन्ति । तमो विवासयन्ति देवाः । ते विधातारः फलानाम् कर्त्रारोऽजस्रा नित्या वि दध्य्ः । कुर्वन्त्यभिमतम् । किञ्च ऋतधीतयः सत्यकर्माणो दस्मा दर्शनीयास्ते रुरुचन्त । रॊचन्ते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः