मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् ३

संहिता

प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् ।
उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥

पदपाठः

प्र । प॒स्त्या॑म् । अदि॑तिम् । सिन्धु॑म् । अ॒र्कैः । स्व॒स्तिम् । ई॒ळे॒ । स॒ख्याय॑ । दे॒वीम् ।
उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । नि॒ऽपातः॑ । उ॒षसा॒नक्ता॑ । क॒र॒ता॒म् । अद॑ब्धे॒ इति॑ ॥

सायणभाष्यम्

पस्त्यां सर्वैर्गन्तव्यामदितिमदीनां देवमातरं तां देवीं सिन्धुं स्यन्दनशीलां नद्यभिमानिदेवीं स्वस्तिं सुखनिवासामेतन्नामिकां देवीं सख्यायानुकूल्यायार्कैर्मन्त्रैरीळे । स्तौ मि । उभे अहनी द्यावापृथिव्यौ यथा नोऽस्मान्निपातः नितरां पातः तथा स्तौ मि । उषासानक्ताहोरात्राभिमानिदेवते अदब्धे अदंभनीये करताम् । कुरुतां अभिमतमितिशेषः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः