आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य ।
पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥
आ । पर्व॑तस्य । म॒रुता॑म् । अवां॑सि । दे॒वस्य॑ । त्रा॒तुः । अ॒व्रि॒ । भग॑स्य ।
पात् । पतिः॑ । जन्या॑त् । अंह॑सः । नः॒ । मि॒त्रः । मि॒त्रिया॑त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥
पर्वतस्येन्द्रसखस्यैतन्नामकस्य देवस्य मरुतां च त्रातू रक्षकस्य भगस्य देवस्य चावांसि रक्षणान्याव्रि । आवृणे । किञ्च पतिर्वरुणो देवो जन्याज्जनसम्बन्धादंहसः पापात् नोऽस्मान्पात् । पातु । रक्षतु । उतापि मित्रश्च मित्रियात् मित्रभावेन न उरुष्येत् । रक्षतु ॥ ५ ॥