मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् ९

संहिता

उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु ।
अ॒स्मभ्यं॑ वाजिनीवति ॥

पदपाठः

उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ । सूनृ॑ते । वार्या॑ । पु॒रु ।
अ॒स्मभ्य॑म् । वा॒जि॒नी॒ऽव॒ति॒ ॥

सायणभाष्यम्

हे उषो हे मघोनि धनवति हे सूनृते प्रियसत्यरूपवागभिमानिनि हे वाजिनीवत्यन्नवति देवि अस्मभ्यं वार्या वरणीयानि पुरु बहूनि धनान्या वह प्रापय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः