मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् १०

संहिता

तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
इन्द्रो॑ नो॒ राध॒सा ग॑मत् ॥

पदपाठः

तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
इन्द्रः॑ । नः॒ । राध॑सा । आ । ग॒म॒त् ॥

सायणभाष्यम्

येन राधसा धनेन सह सविता भगो वरुनो मित्रोऽर्यमेन्द्रः प्रत्येकमा गमत् । आगच्छति यज्ञम् । तद्रधो धनं ते देवा नोऽस्मभ्यं सु सुष्ठु प्रयच्छन्त्विति शेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः