मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् १

संहिता

म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः ।
यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवै॑ः ॥

पदपाठः

म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । इ॒ह । ज्येष्ठे॒ इति॑ । रु॒चा । भ॒व॒ता॒म् । शु॒चय॑त्ऽभिः । अ॒र्कैः ।
यत् । सी॒म् । वरि॑ष्ठे॒ इति॑ । बृ॒ह॒ती इति॑ । वि॒ऽमि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः॑ । एवैः॑ ॥

सायणभाष्यम्

मही द्यावापृथिवी इति सप्तर्चमेकादशं सूक्तं वामदेवस्यार्षं द्यावापृथिव्यम् । पूर्वत्र त्रिगायत्र्यन्तं त्वित्युक्तत्वात्पञ्चम्याद्यास्तिस्रो गायत्र्यः शिष्टास्त्रिष्टुभः । मही सप्त द्यावापृथिवीयमित्यनुक्रमणिका । व्यूधे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्र आदितश्चतुर्रुचं द्याव्यापृथिव्यनिविद्धानीयम् । तथा च सुत्रितम् । मही द्यावापृथिवी इति चतस्र ऋभिर्विभ्वा । आ. ८-८ । इति ॥

इह यज्ञे मही महत्यौ ज्येष्थे प्रशस्ये द्यावापृथिवी द्यावापृहिव्यौ रुचा दीप्त्या युक्ते शुचयद्भिर्दीपयद्भिरर्कैर्मन्त्रैः सोमादिहविर्भिर्वायुक्ते भवताम् । यत् यस्मात् सीं सर्वतो वरिष्ठे उरुतरे बृहती महत्यौ द्यावापृथिव्यौ विमिन्वन् परिछिन्दन् स्थापयन् उक्षा सेक्ता पर्जन्यः पप्रथानेभिः प्रथमानैरेवैर्गमनशीलैर्मरुद्भिर्मेघैर्वा सह रुवत् । रौति । शब्दं करोति । हेति पूरणः । तस्माद्रुचा भवतामिति सम्बन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः