मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५६, ऋक् ३

संहिता

स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ ।
उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके॑ अवं॒शे धीर॒ः शच्या॒ समै॑रत् ॥

पदपाठः

सः । इत् । सु॒ऽअपाः॑ । भुव॑नेषु । आ॒स॒ । यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । ज॒जान॑ ।
उ॒र्वी इति॑ । ग॒भी॒रे इति॑ । रज॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । अ॒वं॒शे । धीरः॑ । शच्या॑ । सम् । ऐ॒र॒त् ॥

सायणभाष्यम्

स इत्स एव स्वपाः शोभनकर्मा सन् भुवनेष्वास । आस्ते । य इमे द्यावापृथिवी द्यावापृथिव्यौ जजान उत्पादितवान् । यश्च प्रजापतिरुर्वी उर्व्यौ विस्तीर्णे गभीरे अविचले सुमेके शोभनरूपे अवम्शे उत्पत्तिरहिते अनाधारे वान्तरिक्षे धीरो धीमान् शच्या कुशलकर्मणा समैरत् । सम्यक् प्रेरितवान् । स एव स्वपा इति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः